|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.245. अध्यायः 245
Mahabharata - Vana Parva - Chapter Topics
भीमादीनां चतुर्णां चित्रसेनादिभिर्गन्धर्वैर्युद्धम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
3-245-0(25497)
वैशम्पायन उवाच। 3-245-0x(2603)
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः।
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ॥ 3-245-1(25498)
अभेद्यानि ततः सर्वे समनह्यन्त भारत।
जाम्बूनदविचित्राणि कवचानि महारथाः।
आयुधानि च दिव्यानि विविधानि समादधुः ॥ 3-245-2(25499)
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः।
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इवपावकाः ॥ 3-245-3(25500)
तान्रथान्साधुसंपन्नान्संयुक्ताञ्जवनैर्हयैः।
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥ 3-245-4(25501)
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः।
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥ 3-245-5(25502)
जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः।
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥ 3-245-6(25503)
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः।
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥ 3-245-7(25504)
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान्।
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥ 3-245-8(25505)
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः।
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत ॥ 3-245-9(25506)
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः।
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥ 3-245-10(25507)
ततस्तान्युधि दुर्धर्षान्सव्यसाची परंतपः।
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥ 3-245-11(25508)
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्।
परदाराभिमर्शश्च मानुषैश्च समागमः ॥ 3-245-12(25509)
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान्।
दारांश्चैषां प्रमुञ्चध्वं धर्मराजस्य शासनात् ॥ 3-245-13(25510)
त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना।
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥ 3-245-14(25511)
एकस्यैव वयं तात कुर्याम वचनं भुवि।
यस्य शासनमाज्ञाय चरामो विगतज्वराः ॥ 3-245-15(25512)
तेनैकेन रकयथादिष्टं तथा वर्ताम भारत।
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥ 3-245-16(25513)
एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनंजयः।
गन्धर्वान्पुनरेवैतान्वचनं प्रत्यभाषत ॥ 3-245-17(25514)
यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान्।
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ॥ 3-245-18(25515)
एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः।
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥ 3-245-19(25516)
तथैव शरवर्षेण गन्धर्वास्ते बलोत्काटाः।
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥ 3-245-20(25517)
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्।
बभूव भीमवेगानां च भात ॥ 3-245-21(25518)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-245-3 दंशिताः सन्नद्धाः ॥ 3-245-10 श्रेयः कल्याणम्। प्रतिपादयितुं प्रापयितुम् ॥ 3-245-19 स्वचरान् गगनगमनान्। खचरान् गन्धर्वान् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|